!! श्री गणेशाय नम : !!
अस्य श्रीमहालक्ष्मीकवचमंत्रस्य ब्रह्मा ऋषि: गायत्री छन्दः,
महाल़क्ष्मीर्देवता, महाल़क्ष्मीप्रीत्यर्थं जपे विनियोग : !!
इंद्र उवाच !!
समस्तकवचानां तु तेजस्वि कवचोत्तमम्
आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते !
श्रीगुरुरुवाच !
महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः
चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् !
शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा
चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा !
घ्राणं पातु वरारोहा जिह्वामाम्नायरुपिणि
मुखं पातु महालक्ष्मी : कण्ठं वैकुण्ठवासिनी !
स्कन्धौ मे जानकी पातु भागवनंदिनी
बाहू द्वौ द्रविणी पातु नाभिं भुवनमातृका !
कटिं च पातु वाराहि सक्थिनी देवदेवता
उरू नारायणी पातु जानुनी चंद्रसोदरी !
इंदिरा पातु जंघे मे पादौ भक्तनमस्कृता !
नखांस्तेजस्विनी पातु सर्वांगं करुणामयी !
ब्रम्हणा लोकरक्षणार्थं निर्मितं कवचं श्रियः
ये पठन्ति महात्मानस्ते च धन्या जगत्रये !
कवचेनावृतांगानां जनानां जयदा सदा
मातेव सर्वसुखदा भव त्वममरेश्वरि !
भूयः सिध्दिमवाप्नोति निर्दिष्टं ब्रह्मणा स्वयम्
लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन् !
नामत्रयमिदं जप्त्वा स याति परमां श्रियम्
यः पठेत् स च धर्मात्मा सर्वान्कामानवाप्नुयात् !
इति श्रीब्रह्मपुराणे इन्दोपदिष्टं श्रीमहालक्ष्मीकवचं संपूर्णम् !!
No comments:
Post a Comment