 जपाकुसुम संकाशं काश्यपेयं महाद्युतिम् !
जपाकुसुम संकाशं काश्यपेयं महाद्युतिम् !तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् !!
----------------
 दधिशंखतुषाराभं क्षीरोदार्णव-संभवम् !
 दधिशंखतुषाराभं क्षीरोदार्णव-संभवम् !नमामि शशिनं सोमं शंभोर्मुकुटभूषणम् !!
--------------------


धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् !
कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम् !!
कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम् !!
-------------------------
 प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् !
 प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् !सौम्यं सौम्य्गुणोपेतं तं बुधं प्रणमाम्यहम् !!
----------------------
 
 
देवानांच ऋषीणांच गुरु कांचनसन्निभम् !
बुध्दिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् !!
बुध्दिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् !!
---------------------
 हिमकुंद मृणालाभं दैत्यानां परम्म गुरुम् !
 हिमकुंद मृणालाभं दैत्यानां परम्म गुरुम् !सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् !!
---------------
 
 
निलांजन समाभासं रविपुत्रं यमाग्रजम् !
छायामार्तंड संभूतं तं नमामि शनैश्चरम् !!
छायामार्तंड संभूतं तं नमामि शनैश्चरम् !!
--------------------------------
 
 
अर्धकायं महाविर्यं चंद्रादित्य विमर्दनम् !
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् !!
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् !!
----------------------

पलाशपुष्पसंकाशं तार्काग्रह मस्तकम् !
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् !!
इतिव्यासमुखोद्गितं यः पठेत सुसमाहितः !
दिवा वा यति वा रात्रौ विघ्नशांतिर्भविष्यते !!
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् !!
इतिव्यासमुखोद्गितं यः पठेत सुसमाहितः !
दिवा वा यति वा रात्रौ विघ्नशांतिर्भविष्यते !!
नरनारी नृपाणांच भवेत् दु:स्वप्ननाशनम् !
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् !!
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् !!
                                                       ग्रहनक्षत्रजा: पीडास्तस्कराग्निसमुद्भवा: !
                                                   ता: सर्वा: प्रशमं यान्ति व्यासोब्रूते न संशयः !!
इति श्री व्यासविरचितम् !
आदित्यादि नवग्रहस्तोत्रं संपूर्णम् !!
आदित्यादि नवग्रहस्तोत्रं संपूर्णम् !!
