April 29, 2015

श्रीगणेशद्वादशनामस्तोत्रम् !

!! श्री गणेशाय नमः !!

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ! प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये !! १ !!
अभीप्सितार्थसिध्यर्थं पूजितो यः सुरासुरै: ! सर्वविघ्नहरस्तस्मै गणाधिपतये नमः !! २ !!
गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः ! प्रसन्नो भव मे नित्यं वरदातर्विनायक !! ३ !!
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ! लंबोदरश्च विकटो विघ्नानाशो विनायक : !! ४ !!
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ! द्वादशैतानि नामानि गणाधेशस्य यः पठेत् !! ५ !!
विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् ! इष्टकामं तु कामार्थी धर्मार्थी मोक्षमोक्षयम् !! ६ !!
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ! संग्रामे संकटे चैव विघ्नस्तस्य न जायते !! ७ !!

!! इति श्रीमुद्गलपुराणोकतं श्रीगणेशद्वादशनामस्तोत्रम् संपुर्णम् !!





No comments:

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या