April 20, 2015

प्रज्ञावर्धनस्तोत्रम् !



अस्य श्रीप्रज्ञावर्धनस्तोत्रमंत्रस्य, सनत्कुमार ऋषि:, स्वामी कार्तिकेयो देवता, अनुष्टुप छंदः मम सकलविद्यासिध्यर्थै जपे विनियोग :  !

श्रीस्कंद उवाच !!
योगीश्वरो महासेनः , कर्तिकेयोग्निनंदनः !
स्कंद: कुमार : सेनानी: , स्वामीशंकरसंभवः !! १!!

गांगेयस्ताम्रचूड्श्च, बह्मचारी शिखिध्वजः !
तारकारिरुमापुत्रः क्रौंचाराति: षडाननः !! २ !!

शब्दब्रह्मस्वरुपश्च, सिध्दः सारस्वतोगुरु: !
सनत्कुमारो भगवान् भोगमोक्षप्रदप्रभु: !! ३ !!

शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत् !
सर्वांगमप्रणेताच, वांच्छितार्थप्रदर्शनः !! ४ !!

अष्टर्विशति नामानि , मदीयानि च यः पठेत् !
प्रत्यूक्षे श्रध्दया युक्तो मुको वाचस्पतिर्भवेत् !! ५ !!

महामंत्रमयानीति मम नामानि कीर्तयेत् !
महाप्रज्ञामवाप्नोति, नात्र कार्या विचारणा  !! ६ !!

इति श्रीस्कंदपुराणे कार्तिकेय्माहात्म्ये
प्रज्ञावर्धनस्तोत्रं संपूर्णम् !!

No comments:

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या