October 19, 2012

!! श्री महालक्ष्मी कवचम् !!


!!   श्री गणेशाय नम : !!

स्य श्रीमहालक्ष्मीकवचमंत्रस्य ब्रह्मा ऋषि:  गायत्री छन्दः,
महाल़क्ष्मीर्देवता, महाल़क्ष्मीप्रीत्यर्थं जपे विनियोग : !!

इंद्र उवाच !!

समस्तकवचानां तु तेजस्वि कवचोत्तमम्
आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते !

श्रीगुरुरुवाच !

महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः
चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् !

शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा
चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा !

घ्राणं पातु वरारोहा जिह्वामाम्नायरुपिणि
मुखं पातु महालक्ष्मी : कण्ठं वैकुण्ठवासिनी !

स्कन्धौ मे जानकी पातु भागवनंदिनी
बाहू द्वौ द्रविणी पातु नाभिं भुवनमातृका !

कटिं च पातु वाराहि सक्थिनी देवदेवता
उरू नारायणी पातु जानुनी चंद्रसोदरी !

इंदिरा पातु जंघे मे पादौ भक्तनमस्कृता !
नखांस्तेजस्विनी पातु सर्वांगं करुणामयी !

ब्रम्हणा लोकरक्षणार्थं निर्मितं कवचं श्रियः
ये पठन्ति महात्मानस्ते च धन्या जगत्रये !

कवचेनावृतांगानां जनानां जयदा सदा
मातेव सर्वसुखदा भव त्वममरेश्वरि !

भूयः सिध्दिमवाप्नोति निर्दिष्टं ब्रह्मणा स्वयम्
लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन् !

नामत्रयमिदं जप्त्वा स याति परमां श्रियम्
यः पठेत् स च धर्मात्मा सर्वान्कामानवाप्नुयात् !

इति श्रीब्रह्मपुराणे इन्दोपदिष्टं श्रीमहालक्ष्मीकवचं संपूर्णम् !
!

No comments:

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या