October 23, 2012

  देवीक्षमापनस्तोत्रम् !!


( देवीपूजेनंतर पूजेतील दोषांचे परिमार्जन होते )

अपराधसहस्त्राणि क्रियंतेSहर्निशं मया !  दासो S यमिति मां मत्वा क्षमस्व परमेश्वरी !
आवाहनं न जानामि  न जानामि विसर्जनम् ! पूजां चैव न जानामि  क्षम्यतां परमेश्वरी !
मंत्रहीनं क्रियाहीनं  भक्तिहिनं सुरेश्वरि ! यत्पूजितं  मया देवि परिपूर्णं तदस्तुं मे !
अपराधशतं कृत्वा जगदंबेति चोच्चरेत् ! यां गतिं समवाप्नोति न तां ब्रह्मादयः सुरा : !
सापराधोS स्मि शरणं प्राप्तस्त्वां जगदंबिके ! इदानीमनुकंप्योS हं  यथेच्छसि तथा कुरु !
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ! तत्सर्वं क्षम्यतां देवि  प्रसीद परमेश्वरी !
कामेश्वरी जगन्मातः सच्चिदानंदविग्रहे ! गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी !
गुह्यातिगुह्यगोत्री त्वं गृहाणास्मत्कृतं जपम् ! सिध्दिर्भवतु मे देवि  त्वत्प्रसादात्सुरेश्वरी!

इति देवीक्षमापनस्त्रोत्रं संपूर्णम् !!

No comments:

गणेश पुराण


उपासना खंड अध्याय
1 2 3 4 5 6
क्रिडाखंड अध्या 1

पत्रिका हवी असल्यास इथे माहिती द्या